LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, 5 September 2016

   कविता

पुत्रे मयि क्षम्यताम्।
हरिप्रसाद् वी टी  कटम्बूर्

एषस्ते तनयोरम्यहं जननि ! त्वत्पादे प्रणम्यप्रियं
सत्यं च त्रपया ब्रवीमि नितरां दुःखेन दुःखात्मिके!
वाक्पुरुष्यमशेषमत्र तनयस्नेहेन मे क्षम्यतां
श्रुत्वैतत् कृपया सुते मयि  सदा कारुण्यमातन्वतु    1

मातास्तावकपुत्रकाः वयमहो त्वत्स्तन्यसंवर्धकाः
नित्यं त्वां परिपीडयाम उपगुप्तेनैव दुष्कर्मणा ।
एवं चेदपि सत्यनिष्ठहृदये !  पुत्रेषु दुष्कर्तृषु
स्नेहेन त्वमतिप्रियेषु सहसे सर्वन्तु सर्वंसहे ।।          2

पापैः पड़्किलमानसाः स्वतनयाः मन्देतरं मातरं
त्वां  विक्रिय स्वकीयसौख्यनिरताः काड़्क्षन्ति शं स्वात्मनः।
वृक्षच्छादितकेशभारनिकुरं विच्छिद्य विच्छिद्य ते
त्वामम्बामपि कारयन्ति विकृतामप्रकृतां मुण्डिताम्।3

सद्वृत्तामपि माननीयचरितां पुत्रोद्य तन्मातरं
कर्तुं वाच्छति वैपरीत्यविधिना चारित्र्यहीनां क्षणात्।
पुत्रप्रेमविशालशुद्धहृदया त्वां हि प्रियत्वादहो!
तूष्णीं प्राप्य सुते सदा कुचरिते शश्वत्सुखं  शंससि ।। 4

पाथोनाथसुवासशुभ्रवसने !त्वां वस्त्रहीनां बत!
कृत्वा पुत्रक पापशिष्टहृदयः संदृश्यते नग्नताम्।
तोषेणैव पयोधरान् गिरिवरान् संक्षोद्य संक्षोद्य तद्-
रूपे  वैकृतमातनोति नितरां दाक्षिण्यभावं विना।।   5


एवं दुःखशतैरपि प्रतिदिनं संक्लिश्यमाना भव-
न्नेत्राभ्यां जननि! च द्रष्टुमसमर्थोस्म्यश्रुपातं शुभे!
पुत्रोस्ति प्रियमातरि कुचरितः किन्तु प्रियत्वात्सदा
पुत्राणामविवेकानां विकृतयो माता स्वयं क्षाम्यति।  6

पीडां पुत्रकृतां स्वयं परिचयात्सोढुं समर्थे भव-
च्चित्ते सम्प्रति दुःखलेशकणिका नास्तीत्यसौ मन्यते ।
प्रेमप्रस्रवणप्रसन्नहृदयम्बोजे कदाप्यन्तरं
कालुष्यस्य च कल्मषस्य च नहि क्रोधस्य संलक्ष्यते।।7

अम्ब!त्वत्सहनं जनाः कुमतयस्त्वच्छक्तिराहित्यमि-
त्यत्युत्साहमबोधपूर्वमधुनाप्याचष्टिरे कुत्सया  ।
तेषु प्रस्नुतपुत्रवत्सलसुधापूर्णस्तने! साम्प्रतं
साशंसं प्रकटीकरोषि भवतां स्नेहं कृपार्द्रं मुदा ।। 8

यत्किञ्चितद्दपभाषते सुतजनः स्नेहं विना निर्द्दयं
यत्किञ्चिद् कुरुते सदा जननि त्वन्नाशाय कापुत्रकः ।
तत्सर्वं दयया वागण्य निजपुत्रोत्कर्षबुद्ध्या स्वयं
या सर्वं सहते विवकेसुधिया तस्यै जनन्यै नमः  ।।  9