- आचार्यः रामकृष्णशास्त्री -
महामन्त्री विश्वसंस्कृतप्रतिष्ठानम् राजस्थानम्
१ . संस्कृतेः विना संस्कृतिर्नास्ति
संस्कृतं या भाषा, तां विना अस्माकं संस्कृतिर्नैव अस्ति। संस्कृतिं ज्ञातुम्, संस्कृतेः ज्ञानं प्राप्तुम्, जीवनं व्यवस्थापयितुम्, वर्णाश्रमधर्मं पालयितुम्, धर्मार्थकाममोक्षरूपं चतुर्विधं पुरुषार्थं च साधयितुम् संस्कृतभाषायाः ज्ञानम् अनिवार्यम् अस्ति। यः संस्कृतम् अज्ञात्वैव शास्त्रप्रयोगं कर्तुम् इच्छति, स शास्त्रस्य पूर्णं फलं न लभते। अतः प्रथमं संस्कृतम् अधीतव्यम्, ततः शास्त्रोक्तं कर्म कर्तव्यम्। तदैव उभयोः अन्तरस्य यथार्थः बोधः भवति।
२. मातृभाषायाः वास्तविकः अर्थः कः ?
लौकिकव्यवहारे मातृभाषायाः अर्थः अयम् एव मन्यते — यां भाषां माता वदति, तां श्रुत्वा बालः तामेव भाषां शिक्षते। इयं व्याख्या स्वस्थाने सत्या एव। किन्तु यदि वयं गम्भीरतया विचारयामः, तर्हि प्रश्नः उदेति — अस्माकं माता कावत् पर्यन्तम् ? अस्माकं केवलं जननी एव माता नास्ति। अस्माकं माता भारतभूमिरपि अस्ति, संस्कृतिरपि माता अस्ति, सर्वासां च मातॄणां मध्ये ज्येष्ठा माता श्रुतिः अस्ति। शास्त्रेषु श्रुतिः माता इति कथ्यते।
अधुना विचार्यताम् — एतासां मातॄणां भाषा का ? श्रुतेः भाषा संस्कृतम् अस्ति, भारतस्य संस्कृतेः भाषा संस्कृतम् अस्ति, भारतमातुः आत्मनः भाषा अपि संस्कृतमेव अस्ति। अतः सांस्कृतिकदृष्ट्या अस्माकं वास्तविकी मातृभाषा संस्कृतमेव अस्ति। मातुः या भाषा, सैव मातृभाषा — अनेन सिद्धान्तेनापि संस्कृतमेव अस्माकं मातृभाषा सिद्ध्यति।
३. गर्भाधानात् अन्त्येष्टिपर्यन्तं सर्वे संस्काराः संस्कृते
मनुष्यजीवने यत् किमपि मुख्यं माङ्गलिकं च कार्यं भवति, तत् संस्कृते एव भवति। गर्भाधानसंस्कारेण जीवनव्यवस्था आरभ्यते। मातापित्रोः विवाहसंस्कारः, गर्भाधानम्, जातकर्म, विद्यारम्भः, उपनयनम् इत्यादयः सर्वे संस्काराः, अन्ते च अन्त्येष्टिः — एते सर्वे संस्कृतमन्त्रोच्चारणेनैव सम्पद्यन्ते।
कस्मिन्नपि देशे जन्म भवतु, काचित् अपि प्रादेशिकी भाषा स्वीकृता भवतु, किन्तु एतानि कार्याणि तु सर्वेषां कृते संस्कृतभाषायामेव भवन्ति। गर्भे स्थितस्य बीजस्य पवित्रीकरणार्थम्, आत्मनः आवाहनार्थं च संस्कृतमन्त्राणामेव प्रयोगः भवति। अर्थात् भवन्तः स्वयमपि संस्कृतभाषायामेव आवाहिताः। ततः कथम् इदं वक्तुं शक्यते यत् भवद्भ्यः संस्कृतं न आगच्छति ?
.jpg)
