LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, 19 December 2016

सा खलु माता मम माता ॥ -बालकविता
- अय्यम्पुष़ हरिकुमारः

माता क्रीडति मया साकं
माता स्वपिति च मम पार्श्वे
लालयति मां स्वापयति मां
माता खलु मम प्राणसखी॥

स्तन्यं / क्षीरं दत्वा पोषयति सा
मधुरं दत्वातोषयति सा
गीतं गत्वा चोदयति सा
सा खलु माता मम माता

कथयति रात्रौ विविध कथा
विहरति गगने पतङ्गमिव
सत्यं धर्मं चेतसि दातुं
कथयति माता  मधुरकथा
19/12/2016