LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, 6 September 2016

एषा मनीषा मम
नमो नम:।
अध्यापकदिनमपि समागच्छति। डा.सर्वेप्पल्लि राधाकृष्णः भारतस्य प्रथमोपराष्ट्रपतिः आधुनिकदार्शनिकेषु अग्रगण्यः च आसीत् इत्येतन्न तस्य जन्मदिनं अध्यापकदिनत्वेन आचरितुं हेतुभूतं जातं, किन्तु सः अनुगृहीतः आचार्यः , विशिष्ट अध्यापकश्चासीत्। अध्यापकवृत्तिमधिकृत्य तस्य दर्शनं उदात्तम् उत्कृष्टं चासीत्।
अध्यापकशब्दस्य शिक्षकः, गुरुः, आचार्यः इत्यादीनि नैकानि समानपदानि व्यवह्रियन्ते। परन्तु एकैकस्य शब्दस्य अर्थव्याप्तिः विभिन्ना अस्ति, भारतीयसंस्कृतिदृष्ट्या। अतः छात्राणां पुरतः अध्यापकः कस्मिन् स्तरे तिष्ठति इति अत्यन्तं प्राधान्यमर्हति। यतः अध्यापकः उत्तमपुरुषान्तरस्य , उत्कृष्टवंशपरम्परायाः शिल्पी अस्ति;संरचयिता अस्ति!
आधुनिके काले अध्यापकस्य कर्म/धर्मम् अधिकृत्य कालानुसारं परिवर्तनं सञ्जातम्। साहाय्यदाता, मार्गदर्शकः, इत्यादीनि बहूनि व्याख्यानानि सन्ति। सर्वं युज्यते एव। किन्तु अध्यापकः गुरु शब्दस्य आचार्य शब्दस्य च तत्वं सारं मनसि निधाय आदर्शभूतः भवेत्तर्हि स एव उत्कृष्ट अध्यापनवृत्तिः।