LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, 1 August 2021

 पुस्तकमुद्रणम् 




-डा गदाधर त्रिपाठी

श्रुत्वा संरक्षिता वेदा श्रुत्वा संरक्षणं तदा।

लिपिर्नासीत्तथा चैव न ज्ञानं मुद्रणस्य वै।।

आदौ जाता ध्वनिश्चैवाक्षराणां नु समुद्भवः।

पितृभिः गुरुभिश्चैव भाषा वै प्रस्तुता तदा।।

शनै:शनैश्च जातं नु लिपेर्ज्ञानं तदा हि वै।

लेखनं भूर्जपत्रेषु समारब्धं सुशोभनम्।।

लिपिर्जाता नु पुष्टा वै कर्गदस्य च शोधनम्।

विचाराः कलिताश्चैव समारब्धं तु मुद्रणम्।

काष्ठाक्षरैस्तथा चैव लोहाक्षरैः सहैव वा।

आरब्धं मुद्रणञ्चैव व्यवस्थेयं पुरा हि वै।।

कवयो लेखकाश्चैव लिखन्ति यद् वदन्ति वा।

इच्छन्ति मुद्रणं तस्य सर्वेषाञ्च हिताय वै।।

अभवद्वै विकासो हि यन्त्राणाञ्च यथा तथा।

मुद्रणञ्चैव यन्त्रैर्हि जातं रुचिकरं हि वै।।

अनेके विधयश्चैव मुद्रणस्य नु भारते।

यन्त्रै: प्रचलितास्तेन सरलं मुद्रणं हि वै।।

चीनदेशे तु बुद्धस्य चित्रमासीत् प्रकाशितम्।

प्राप्तं हीरकसूत्रञ्च मुद्रणं प्रथमं हि वै।।

भवति या च शक्तिर्हि मुद्रणेन सुरक्षिता।

'चाल्सी डिक्नस' विद्वान् निरूपयति मतं यथा।।

मुद्रणस्य तु कार्यं वै साध्यमर्थेन सर्वदा।

अर्थहीनास्तथा चैव लेखका:प्रायशस्तु वै।।

अनेनैव तु प्रायो वै मुद्रणं मुद्रकैर्यथा।

लाभान्वितास्तथा चैव लेखका हि यथा तथा।।

oooooooooooooooooooooooooooooooooooooo