LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, 23 October 2020

पञ्चतन्तन्त्रोपाख्यानम् 

- डा. गदाधरत्रिपाठी



(पञ्चतन्त्रकथाम् अधिकृत्य कविता)


शत्रुभिर्मित्रभिश्चैवोदासीनै: सह सर्वदा।

व्यवहारेण सम्बन्धा निर्धारितास्तथा च वै॥

 सम्बन्धैर्जीवनञ्चैव सुकरं सर्वथा सदा।

व्याख्या तथा च तेनैव प्रस्तुता ऋषिभिस्तथा॥


पञ्चतन्त्रं विशिष्टं हि प्रस्तुतं विष्णुशर्मणा।

विभक्तं पञ्चभागेषु  कविना गुम्फितं तथा॥

 नागनकुलयोश्चैव  सिंहवकुलयोर्हि वै।

मूर्खै:कार्यविपत्तिर्हि मर्कटस्य कथा यथा॥

 ग्रन्थस्यास्य च भेदो हि मित्रभेदश्च वर्तते।

पशवो मनुजाश्चैव  पात्राणि नु तथा हि वै॥

 सम्बन्धेषु सदा चैव मित्रभावः सुकोमलः।

मित्रसंप्राप्तिखण्डे तु मित्रभावः प्रदर्शितः॥

 कथासु पञ्चतन्त्रस्य पशवः पक्षिणस्तथा।

नियोजिता यथा तेन संदेशाः प्रहिता हि वै॥

काकोलूकप्रखण्डे तु  कथं राजा सुचिन्तनम्।

 काकश्चैव सुनीतिं हि स्थापयति यथा तथा॥

 लब्धप्रणाशखण्डे वै  संकेतो निहितस्तथा।

बुद्ध्या प्राप्नोति सर्वं हि बुद्धिहीना: पराजिता:॥

 पञ्चमे चैव खण्डेऽपि संकेतः प्राप्यते यथा।

सर्वं विचार्य कार्यं हि शास्त्राणां नु सुचिन्तनम्॥

 औत्सुक्येन तथा चैव कथा संवलिता हि वै।

तेनैव रम्यता चैव सर्वत्र परिदृश्यते ॥

 वदन्ति पशवश्चैव पक्षिणश्च तथा हि वै।

विज्ञा यथा तथा चैव रोमाञ्चमनुभूयते॥

 देशे चैव विदेशे च ग्रन्थोऽयञ्च समादृतः।

अनेकासु च भाषासु पठन्ति सुधियो जनाः ॥

 यद्यपि चैव ग्रन्थोऽयं बालानाञ्च कृते हि वै।

 तथाप्यस्य च संदेशा: सर्वेषां  नु कृते यथा॥

 सर्वं समादृतञ्चैव सर्वं विज्ञानसम्मतम्।

बालकेभ्यो यथा चैव वरिष्ठेभ्यस्तथा नु वै॥

 संपत्तौ किञ्च कार्यं वै  विपत्तौ किं न वै तथा।

संकेता: पञ्चतन्त्रे हि तेनायमद्भुतो यथा॥

            ---------------------------