LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, 25 February 2019


संस्कृतं विना नहि भारतम्।

-रामकृष्णशस्त्री-जयपुरम्
      भवन्तो जानन्ति एव भारत-नामेदं राष्ट्रम् अतिविशालम् | भारते राष्ट्रे वर्तन्ते अनेकानि राज्यानि तेषु केरळम् अन्यतमम् | एषा पावना समृद्धा च केरळ-भूमिः सर्वैरपि वन्द्यते अभिनन्द्यते च | भारतस्य वर्णनं कुर्वन् कवि-कुल-गुरुः कालिदासः स्वीये रमणीये महाकाव्ये “कुमार-सम्भवम्”- इत्यत्र आद्ये श्लोके निगदति-
     “अस्त्युत्तरस्यां दिशि देवतात्मा, हिमालयो नाम नगाधिराजः |
       पूर्वापरः तोय-जलावगाह्यः, स्थितः पृथिव्याः इव मानदण्डः  ||
देवाः अपि अस्य राष्ट्रस्य यशोगीतकानि गायन्ति | भवद्भिः श्रुतं स्यात् यद्धि  विष्णुपुराणे प्रोक्तम् –
      “गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारत-भूमि-भागे|
       स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ||
अस्याः भारत-भूमेः रात्रिः रम्या, दिवसः दिव्य-कर्म-प्रेरकः, सन्ध्या सौन्दर्यमयी, प्रभातश्च प्रमोदकः | अत एव, प्रतिदिनं प्रभाते भवन्तः शृण्वन्ति ...  इयम् आकाशवाणी, सम्प्रति वार्त्ताः श्रूयन्ताम्... प्रवाचकः- ... अयमेव सः सुरभारती-सेवकः | जगति विदिततरमिदं यत्  “भारतस्य   प्रतिष्ठे   द्वे संस्कृतं संस्कृतिस्तथा” “संस्कृतं विना नहि भारतम्।"

 किं नाम संस्कृतम् ? का नाम संस्कृतिः च ?
 एतद् अवगम्य एव सांस्कृतिक-पुनर्जागरणे वयं संस्कृतस्य महत्त्वम् आवश्यकतां  चावगन्तुं शक्ष्यामः |
 कानिचित् एतानि लघु-लघूनि सूत्राणि भवद्भिः श्रुतानि स्युः  ..... “भूमा वै सुखं नाल्पे सुखमस्ति”, “तेन त्यक्तेन भुञ्जीथाः”, “चरन् वै मधु विन्दति”, “चरैवेति चरैवेति”, “रूपं रूपं प्रतिरूपो बभूव”, “सह वीर्यं करवावहै”, “संगच्छध्वं संवदध्वम्”, “वसुधैव कुटुम्बकम्”, --- एतानि सूत्राणि भारतीय-प्रज्ञायाः वैदिक-मनीषायाः च हार्दं भावं प्रकटयन्ति|  एषा अस्ति भारतीया संस्कृतिः|  उत वा वक्तुं शक्यते यत् एतदस्ति भारतीय-संस्कृतेः आभ्यन्तरीणं रूपम् |

 अपि च, “मातृदेवो भव”, “पितृदेवो भव”, “आचार्यदेवो भव”, “अतिथिदेवो भव”, “स्वाध्याय-प्रवचनाभ्यां न प्रमदितव्यम्”, “यानि अस्माकं सुचरितानि तानि त्वया उपास्यानि नेतराणि”।

 एतदस्ति भारतीय-संस्कृतेः बाह्य-स्वरूपम् यत्र वयं सर्वमपि शिक्षणं प्रशिक्षणं च संस्कारत्वेन परिभावयामः | अत एव सर्वे वदन्ति- “संस्कृतं संस्कारयति विश्वम् |”  अत एव, भारतीयः ऋषिः उद्घोषयति
      -    “एतद्देश-प्रसूतस्य, सकाशादग्रजन्मनः|
            “स्वं स्वं चरित्रं शिक्षेरन्, पृथिव्यां सर्व-मानवाः ||
                                                        - [मनुस्मृतिः]

 अद्वितीयायाः अस्याः भारतीय-संस्कृतेः प्रकाशिका संवाहिका च अभिव्यक्ति-रूपा अस्ति- “संस्कृत-भाषा”...“सुरभारती”...“गैर्वाणी”...“देववाणी” “देवभाषा”......!!!
 न केवलम् एषा भाषा,  अपि तु “ध्वनि-विज्ञानम्”- इति आधुनिकाः अपि भौतिक-विज्ञानिनो वदन्ति | अत एव संगणक-शास्त्र-विशारदाः भणन्ति यत् संगणक-विज्ञानार्थं अतितरां समुचिता, समुपयोगिनी वर्तते- संस्कृत-भाषा।
 एवम् अस्ति चेत् कथं नैषा, विद्यालयेषु  आरम्भाद् एव पाठनीया शिक्षणीया च ? ज्ञानं विज्ञानं कला शिल्पं साहित्यं चेत्यादि-विषयाः न कदापि कस्यापि वर्ग-विशेषस्य जाति-विशेषस्य चाधिकार-क्षेत्रे प्रवर्तन्ते,  अत्र तु “स्वयमेव मृगेन्द्रता” इति विभावनीयम् | काले काले शुभासु स्वस्थासु दिव्यासु च परम्परासु विकारः भवति,  काल-प्रभावात् युग-प्रभावात् चैवं भवत्येव | गीतायां प्रोक्तम् –
            काम एष क्रोध एष रजोगुण-समुद्भवः .... अत एव रजोगुणमयं परिदृश्यं   प्रतीकर्तुं सत्वगुणं-मयं च परिवेशं विवर्धयितुं सुदृढीकर्तुं चापि संस्कृतस्य शिक्षणं प्रशिक्षणं प्रचारप्रसारः संरक्षणं संवर्द्धनं चावश्यकम् |
------------------