LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, 29 December 2017

 सांख्यदर्शनानुसारेण पुरुषस्वरूप विचारः
Research Article  No: 20171229  
 अनुसन्धानाध्ययनम्

जिषा के नारायणन्, गवेषका
संस्कृत-वेदान्त-विभागः, 
शङ्कराचार्य संस्कृत विश्वविद्यालयः, कालटि ।
दूरवाणी-९३८७४५९२३४ 
     
         भारतीयेषु आस्तिकदर्शनेषु प्राचीनतमं भवति सांख्यदर्शनम्। सांख्यसूत्रकर्ता कपिलमुनिः। किन्तु सग्रन्थः इदानीं नोपलभ्यते। ईश्वरकृष्ण विरचिता सांख्यकारिका इदानीं उपलभ्यमानेषु सांख्यग्रन्थेषु प्राचीनतमा मुख्यतमा च। वाचस्पति मिश्र विरचिता तत्वकौमुदी अज्ञातकर्तृता, युक्ति दीपिका, गौढपादीयम् भाष्यं, माठरकृतावृत्तिः, शङ्कराचार्य विरचिता जयमङ्ला च अस्याः व्याख्यान ग्रन्थेषु मुख्या।

         गणनार्थकात् सम्यक्ज्ञान अर्थकात् वा संख्या शब्दात् मिप्पन्नोऽयं संख्या शब्दाः। अर्थद्वयमपि अत्र सङ्गच्छते। यतो हि अत्र पुरुषः, प्रकृतिः, महत् इत्यादिभिः पञ्चविंशति सांख्याख्यानि तत्वानि प्रतिपादितानि। एतेषां तत्वानां सम्यक् ज्ञानमेव अत्र दुखत्रय आत्यन्तिक निवृत्तिरूप कैवल्योपायत्वेन अमिहितम्।

        इदानीं पुरुषस्य स्वरूपविचारारम्भकद्वारेण पुरुषस्य अस्तित्व साधकानि कारणानि उच्चते। अत्र संघातपरार्थत्वात् इति। अचेतनानां पदार्थनां क्रमं अनुसृत्य सज्जीकरणमेव अथवा सङ्घातः इत्युच्चते। तादृशाः सर्वे अपि सङ्घातः सचेतनं परं उद्धि२य वर्तते। अव्यक्तादयः सर्वे सङ्घातः अपि परं सचेत नं उद्धिश्य प्रवर्तन्ते।
सः परः पुरुष: एव इत्याशयः त्रिगुणादि विपर्ययात् इत्यर्थे अव्यक्तादिनां सर्वेषां अपि तैगुण्यं प्रतिपादितम्I त्रैगुण्यस्य अभावः तु पुरुषे एव युज्यते इत्यर्थः।

        अधिष्ठानां इति अचेतनानां पदार्थानां प्रवृत्यर्थं सचेतनेन केनापि अधिष्ठानं आपेक्षितम्। यथा रथः अचेतनः सन् सारथिना अधिष्ठितः सन् चलति। तद्वत् अचेतनानां  अव्यक्तादीनां प्रवृत्युपपत्तये  केनापि अधिष्ठान्ना भवितव्यम्।  सः पुरुष: एव इत्यर्थः। भोक्तृभावात् इत्यर्थे अनुकूलवेदनीयं सुखं, प्रतिकूलवेदनीयं दुखं इत्युभयमपि भोग्यं इत्युच्चते। तयोः भोक्ता पुरुषः एव सचेतनत्वात्। अव्यक्तादस्तु अचेतनत्वात् भागे अयमर्थः इत्थर्थः। तस्मात् पुरुषः एव भोक्ता इत्यर्थः। कैवल्यार्थं प्रवृत्तेः इति। आत्यन्तिकदुखशमनरूपस्य कैवल्यस्य प्राप्तये विवेकशालीनः प्रयतन्ते। तत् कैवल्यं तु प्रकृतेः पूर्णतया वियोगात् एव सम्बादयितुं शक्यते, सा कैवल्यावस्था पुरुषस्य एव इत्यर्थः ।
 
 संघात परार्थत्वात् त्रिगुणादि विपर्यायादधिष्ठानात्
पुरुषोऽक्त्ति भोक्तृभावात् कैवल्यार्थं प्रवृत्तेश्च॥ *1

        पुरुषस्य नानात्व साधकानि कारणानि। जन्ममरण करणानां प्रतिनियमात् इति। नूतन देहेन्द्रियमनोऽहंकारादिभिः पुरुषस्य सम्बन्ध : एव जन्म इत्युच्यते। स्वीकृतानां देहादीनां परित्यागः एव मरणं इन्युच्चते। बुद्धि : (महत्) अहंकारः, मनः पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि च इत्येत् समुचितं करणं इत्युच्चते। जन्म-मरण-करणानां प्रतिशरीरं भेदः दृश्यते। सः भेदः पुरुषस्य नानात्वे एव उपपद्यते।  पुरुषस्य एकत्वे एकस्मिन् पुरुषे जाते सर्वे अपि पुरुषाः अपि जायेरन्। एकस्मिन् पुरुषे मृते सर्वेऽपि मियेरन्। तन्न दृश्यते। अतः पुरुषस्य बहुत्वं अड्गीक्रियते। अयुगपत् प्रवृत्ते: इति। प्रवृत्तिः प्रयन्तः एव। पुरुषस्य एकस्वे यदा तस्य कस्मिन् चेत् शरीरं प्रवृत्ति: तदा अन्येषु अपि शरीरेषु युगपद् सर्वे प्रवृत्तिः स्थात्। तस्याः अभावात् पुरुषाः बहवः इत्यर्थः।

जननमरणकरणानां प्रतिनियमादयुगवत् प्रवृत्तेश्च
पुरुषबहुत्वं सिद्धं तैगुण्य विपर्यायाचैव ॥ *2


        प्रागुक्तरीत्या पुरुषस्य बहुत्वं तस्य तैगुण्याधिभावात् च साक्षिभावः सिद्ध: भवति।  पुरुषाय प्रकृतिः स्वकीय विषयान् दर्शयति। तस्मात् पुरुषः साक्षी इत्युच्यते। अत एव सः द्रष्टोऽपि भवति। पुरुषस्य स्वतसिद्ध : आत्यन्तिकदुखत्रयाभावः एव कैवल्यं इत्युच्चते। त्रैगुण्याभावात् एव तत् तस्य सिद्धं भवति। अत एव तस्य माध्यस्थं अथवा औदासीन्यं अपि सिद्धयति। वस्तुतः पुरुषः प्रकृतिकृत सुखेन न तृप्यति, नापि दुःखेन क्लिश्यति। एवं सुखदुःखयोः मध्यस्थत्वात् सः मध्यस्थः अथवा उदासीन: इति उच्चते। प्रकृतेरेव कर्तृत्वं इनत्यतः पुरुषस्य अकर्तृत्वं एव युज्जते।

        चेतनस्यापि अकर्तृः पुरुषस्य चैतन्यहीनाया: अपि कर्त्याः प्रकृते: च संयोगात् अथवा सान्निध्यात् अयं परिणामक्रम: प्रचलति इति सांख्य सिद्धान्तः। तदेव विवृणोति तस्मात् तत् संयोगात् इति। चेतनस्य पुरुषस्य संयोगात् अचेतनं लिङ्गं अर्थात् प्रकृतिः महदादयः च सचेतनं इव प्रतीयते । तथा गुणात्मिकायाः कर्त्याः प्रकृतेः सान्निध्यात् पुरुषः अपि वस्तुतया उदासीन: अपि कर्ता इव प्रतीयते। एवं पुरुषस्य स्वरूपं सांख्यदर्शनद्वारा विशदीकरोति।

*।. सांख्यकारिका - ईश्वरकृष्ण- 17
*2. सांख्यकारिका - ईश्वर कृष्ण- 18
---------------------------------------------------------------------------