LEKHA MANJARI For SANSKRIT LITERATURE
Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, 28 March 2016

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम् ।
आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

नीतिशतकम् – ६६

सामान्यजनाः सौख्यकाले आनन्देन अत्युत्सुकाः भवन्ति । कष्टकाले निरुत्साहिनः सन्तः असहायकताम् अनुभवन्ति । किन्तु महापुरुषाः न तथा । सम्पत्तेः प्राप्तौ तेषां मनः कमलवत् कोमलं भवति । आपत्तौ ते किञ्चिदपि विचलिताः न भवन्ति । महापर्वतस्य शिला इव नितरां दृढं तिष्ठन्ति ।